|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.88. अध्यायः 088
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
युधिष्ठिरेणि पाण्डवेषु चतुर्भ्योऽर्जुनस्यैव विशेषतोऽध्वसंचारादिपरिक्लेशसूचकशारीरालक्षणप्रश्ने कृष्णेन तंप्रति तत्कथनम्॥ 1 ॥ मेध्याश्वस्य पृथ्वीसंचारणाय गतेनार्जुनेन सहाश्वेन पुनर्नगरं प्रत्यागमनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्।
तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो॥ 14-88-1(94956)
बहूनि किल युद्धानि विजयस्य नराधिपैः।
पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम्॥ 14-88-2(94957)
किंनिमित्तं स नित्यं हि पार्थः सुखविवर्जितः।
अतीव विजयो धीमानिति मे दूयते मनः॥ 14-88-3(94958)
संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन।
अतीव दुःखभागी स सततं पाण्डुनन्दनः॥ 14-88-4(94959)
किंनु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते॥ 14-88-5(94960)
अतीवासुखभोगी स सततं कुन्तिनन्दनः।
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन।
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि॥ 14-88-6(94961)
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम्।
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्॥ 14-88-7(94962)
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये।
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः॥ 14-88-8(94963)
स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते।
न चान्यदनुपश्यामि येनासौ दुःखभाजनम्॥ 14-88-9(94964)
इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता।
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो॥ 14-88-10(94965)
कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा।
प्रख्युः सखा हृषीकेशः साक्षादिव धनंजयः॥ 14-88-11(94966)
तत्र भीमादयस्ते तु करवो याजकाश्च ये।
रेमुः श्रुत्वा विचित्रां तां धनंजयकथां शुभाम्॥ 14-88-12(94967)
तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः।
उपायाद्वचनाद्दूतो विजयस्य महात्मनः॥ 14-88-13(94968)
सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्।
उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत्॥ 14-88-14(94969)
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः।
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा॥ 14-88-15(94970)
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत।
आगच्छति नरव्याघ्रे कौरवाणां धुरंधरे॥ 14-88-16(94971)
ततो रेणुः समुद्भुतो विबभौ तस्य वाजिनः।
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा॥ 14-88-17(94972)
तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः।
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः॥ 14-88-18(94973)
कोन्योहि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान्
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात्॥ 14-88-19(94974)
ये व्यतीता महात्मानो राजानः सगरादयः।
तेषामपीदृशं कर्म न कदाचन शुश्रुम॥ 14-88-20(94975)
नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः।
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि॥ 14-88-21(94976)
इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः।
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्॥ 14-88-22(94977)
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः।
धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा॥ 14-88-23(94978)
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः।
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम्॥ 14-88-24(94979)
तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि।
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः॥ ॥ 14-88-25(94980)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टाशीतितमोऽध्यायः॥ 88 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|